सरस्वती सुप्रभातम लिरिक्स Saraswati Suprathatam Lyrics

सरस्वती सुप्रभातम लिरिक्स Saraswati Suprathatam Lyrics

उत्तिष्ठोत्तिष्ठ! हे वाणि! उत्तिष्ठ! हंसिनीध्वजे ।
उत्तिष्ठ! ब्रह्मणो राज्ञि! त्रैलोक्यं मङ्गलं कुरु ॥ १॥

जागृहि त्वं महादेवि! जागृहि त्वं सरस्वति! ।
जागृहि त्वं चतुर्वेदि! लोकरक्षाविधिं कुरु! ॥ २॥ 


लोकाः सर्वे शुचाम्भोधौ निमग्नास्तान् समुद्धर!
त्वमेवैका स्वयंव्यक्ता समर्था सिकताभवा! ॥ ३

श्रीवाणि! सर्वजगतां जननि! प्रमोदे!
जिह्वाग्रवासिनि मनोहरि वेधसस्त्वम् ।
वाञ्छाप्रदायिनि! समाश्रितभक्तकोटेः
श्रीपद्मजातदयिते! तव सुप्रभातम्! ॥ ४॥

तव सुप्रभातमखिलार्थदायिनि!
कमनीयगात्रि! करुणातरङ्गिणि!
कमलायताक्षि! वदनेन्दुमण्डले !
परमेष्ठिदेवि! सुरसुन्दरीसुते! ॥ ॥ ५॥

श्रीव्यासपूजितपदाम्बुजकोमलाङ्गि!
कार्तस्वराञ्चितविशेषविभूषिताङ्गि! ।
प्रालेयमौक्तिकशशाङ्कसुशोभिताङ्गि!
श्रीवाणि! वासरपुरे! तव सुप्रभातम् ॥ ६॥

श्रीगौतमीतटसमीकृतसैकतेन
व्यासेन सेचनसमाहित श्रीकरैश्च ।
श्रीषोडशी मनुजसेन निरूपिता त्वं
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ७॥

वल्लीत्रयान्तरसुचक्रसमर्चनेनवर सुचित्र
श्रीमन्त्रवाग्भवसमुच्चय कूटदेशे! ।
व्यक्तासि रक्षितुमितः स्वयमेव देवि ।
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ८॥

श्रीमन्त्रराजतनुबीजविराजमानां
ओङ्कारतत्त्वविशदाय गृहीतमूर्तिम्! ।
त्वां पण्डिता भुवि भजन्ति सरस्वतीति
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ९॥

ओङ्कारपञ्जरशुकीं निगमान्त वेद्यां!
ह्रीं मातृकावरण श्रींयुत ब्लूञ्च सौरैम् ।
क्लीं सौश्च सैङ्गतदशाक्षरदेवि वन्दे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १०॥

संसारतारकमहामनुबीजवर्णां
मायामयीं गुणमयीं सगुणोद्भवां त्वाम् ।
शक्तित्रयात्मकचितीति जपन्ति बुद्धाः
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ११॥

सौन्दर्यवारधितरङ्ग परम्परायां
वेलानिरूपकमनोहरदेहदीपे ।
सर्वोपमाननिचयस्य समोपमेये
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १२॥

सङ्गीतवाङ्मयकलाप्तसुहासनेत्रि!
रागैश्च षोडशसहस्रविधैश्च गीते ।
आनन्ददायकरसैर्खनिभिश्च पूर्णे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १३॥

सौभाग्यदे! त्वमिह विद्रुमवर्णलक्ष्मीः
विद्याप्रदे! त्वमिह धौतसुधांशुवाणि ।
शत्रुञ्जये! त्वमिह नीलतमालकाळी
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १४॥

श्रीचक्रमन्दिरविहारिणि! राज्यलक्ष्मि!
राकासुधाकरशिरोमणि! नीलवेणि! ।
राजीवलोचनशिरीषसुमाग्रनासे ।
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १५॥

कौमारशैलशिखरे सुखवासयोग्ये
सूर्येन्द्रविष्णुशिवपुत्रगणेशमुख्यैः ।
वासिष्ठवारुणिवरैश्च सुपूततीर्थे

Also read :2022/07/mere-hatho-me-kheench-de-lakir-lyrics.html” title=”मेरे हाथों में खींच दे लकीर ऐसी माँ लिरिक्स Mere Hatho Me Kheench De Lakir Lyrics”>मेरे हाथों में खींच दे लकीर ऐसी माँ लिरिक्स Mere Hatho Me Kheench De Lakir Lyrics

श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १६॥

अष्टाब्जपुञ्जितविशेषवयोविलासे!
बिम्बाधराञ्चितसुहासविलासरेखे/नेत्रे! ।
कारुण्यपूरितदृगञ्चलरम्यमूर्ते
श्रीवाणि! वासरपुरे! तवसुप्रभातम्! ॥ १७॥

औदुम्बराख्यतरुमूलपवित्रदेशे
दत्तावधूतयतिरत्र गृहीतदीक्षः ।
जप्त्वा त्वदीयशुभनाम बभूव सिद्धः
श्रीवाणि ! वासरपुरे! तव सुप्रभातम्! ॥ १८॥

प्रत्यूषरञ्जितनवार्कमरीचिपुञ्जाः
प्रान्तप्रशान्तप्रकृतिं रमणीयदृश्याम् ।
सम्भावयन्ति च विरच्य सरस्वतीह
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १९॥

नित्यं तवार्चकसुधीश्च मुखारविन्दं
श्रीखण्डचूर्णहरितालसुगन्धतीर्थैः ।
ब्राह्मे मुहूर्तसमये रचनां करोति
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ! २०॥

सप्तस्वराञ्चितमनोहरनादयुक्तैः
प्राभातकालिकसुनादविनोदरागैः ।
गायन्ति कोकिलमयूरमरालचक्राः
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २१॥

दीक्षाविधाननियमानुसरेण भक्ताः
गत्वा पुरे भवति! देहि घृणाक्षभिक्षम् ।
याचन्ति तानिति गृहस्थतदात्मरूपान्
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २२॥

योगीशमानससरोवरराजहंसि!
भक्तालिमानससरोजविहारभृङ्गि! ।
श्रीचक्रषोडशमहामनुबीजवासे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २३॥

ज्ञानात्मिके! विविधवस्तुविवेकरूपे!
इच्छात्मिके! भगवदात्मसमानरूपे! ।
यत्नात्मिके! परमधाम समात्तरूपे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २४॥

शिञ्जानकङ्कणनिनादविनोदपाणे!
वीणाविवादनविजृम्भितपूर्णरागे! ।
विन्यस्तहस्तभ्रुकुटीचुबुकाक्षिवत्से
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २५॥

कूजन्ति देवि! चरणायुधपक्षिसङ्घाः!
गायन्ति देवि! तव मागधवन्दिवृन्दाः ।
अर्चन्ति देवि! भुवि वैदिककाव्यशिष्याः
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २६॥

दिव्यापगाविकसिताच्छसुवर्णपुष्पाः
हस्ताश्च मन्त्रपठनानुरणेन देवाः ।
तिष्ठन्ति देवि! तव मन्दिरमुख्यमार्गे ।
श्रीवाणि! वासरपुरे! तव सुप्रभातम् ॥ २७॥

दिक्पालकाश्च तव पीठककोणदेशे
श्रीचक्रमन्दिरनवावरणेषु देवाः ।
स्थित्वा च मङ्गलपुरश्चरणं पठन्ति
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २८॥

इत्थं सरस्वति! कृतं चिनवेङ्कनेन
वेदान्तमन्त्रजपपाठविधानपूर्वम् ।
पारायणेन च पवित्रचरित्रगानं
पुण्यावहं सकलमङ्गलसुप्रभातम्! ॥ २९॥


Leave a Comment